प्रत्यक्षपरिच्छेदः


द्रव्यगुणकर्मसामान्यविशेषसमवायाभावास्सप्त पदार्थाः।
तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव।
रूप-रस-गन्ध-स्पर्श-सङ्ख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्वा-ऽपरत्व-गुरुत्व-द्रवत्व-स्नेह-शब्द- बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्न-धर्मा-ऽधर्म-संस्कारा-श्चतुर्विंशतिर्गुणाः॥

उत्क्षेपणाऽपक्षेपणा-ऽऽकुञ्चन-प्रसारण-गमनानि पञ्च कर्माणि।
परमपरं चेति द्विविधं सामान्यम्।
नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव। समवायस्त्वेक एव।
अभावश्चतुर्विधः - प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्याभावश्चेति।

तत्र गन्धवती पृथिवी। सा द्विविधा – नित्याऽनित्या च।
या - परमाणुरूपा, अनित्या - कार्यरूपा ।
पुनस्त्रिविधा - शरीरेन्द्रियविषयभेदात्। शरीरमस्मदादीनाम्।
इन्द्रियं गन्धग्राहकं घ्राणं। नासाग्रवर्ति। विषयो मृत्पाषाणादिः।

शीतस्पर्शवत्य आपः। ता द्विविधाः - नित्या अनित्याश्च।
नित्याः परमाणुरूपाः।
अनित्याः कार्यरूपाः। पुनस्त्रिविधाः। शरीरेन्द्रियविषयभेदात्।
शरीरं वरुणलोके।
इन्द्रियं रसग्राहकं रसनम्। जिह्वाग्रवर्ति। विषयः सरित्समुद्रादिः।

उष्णस्पर्शवत्तेजः। तच्च द्विविधम् - नित्यम् अनित्यं च।
नित्यं परमाणुरूपम्। अनित्यं कार्यरूपम्।
पुनस्त्रिविधं - शरीरेन्द्रियविषयभेदात् ।
शरीरमादित्यलोके प्रसिद्धम्।
इन्द्रियं रूपग्राहकं चक्षुः। कृष्णताराग्रवर्ति।
विषयश्चतुर्विधः - भौमदिव्यौदर्याकरजभेदात्।
भौमं वह्न्यादिकम्। अबिन्धनं दिव्यं विद्युदादि।
भुक्तस्य परिणामहेतुरौदर्यम्। आकरजं सुवर्णादि।

रूपरहितस्पर्शवान् वायुः।
स द्विविधः - नित्योऽनित्यश्च। नित्यः परमाणुरूपः।
अनित्यः कार्यरूपः। पुनस्त्रिविधः - शरीरेन्द्रियविषयभेदात्।
शरीरं वायुलोके।
इन्द्रियं स्पर्शग्राहकं त्वक्। सर्वशरीरवर्ति। विषयो वृक्षादिकम्पनहेतुः।
शरीरान्तःसञ्चारी वायुः प्राणः।
स चैकोऽप्युपाधिभेदात्प्राणाऽपानादिसंज्ञां लभते।

शब्दगुणकमाकाशम् । तच्चैकं विभु नित्यं च।
अतीतादिव्यवहारहेतुः कालः।
स चैको विभुर्नित्यश्च। प्राच्यादिव्यवहारहेतुर्दिक् ।
सा चैका विभ्वी नित्या च।

ज्ञानाधिकरणमात्मा। स द्विविधः - जीवात्मा परमात्मा चेति ।
तत्रेश्वरः सर्वज्ञः परमात्मा एक एव।
जीवस्तु प्रतिशरीरं भिन्नो विभुर्नित्यश्च।

सुखाद्युपलब्धिसाधनमिन्द्रियं मनः।
तच्च पत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च।

चक्षुर्मात्रग्राह्यो गुणो रूपम्।
तच्च शुक्ल-नील-पीत-रक्त-हरित-कपिश-चित्रभेदात् सप्तविधम्।
पृथिवीजलतेजोवृत्ति। तत्र पृथिव्यां सप्तविधम्।
अभास्वरशुक्लं जले। भास्वरशुक्लं तेजसि।

रसनग्राह्यो गुणो रसः।
स च मधुरा-ऽम्ल-लवण-कटु-कषाय-तिक्त-भेदात् षड्विधः।
पृथिवीजलवृत्तिः। तत्र पृथिव्यां षड्विधः। जले तु मधुर एव।

घ्राणग्राह्यो गुणो गन्धः।
स च द्विविधः - सुरभिरसुरभिश्च। पृथिवीमात्रवृत्तिः।

त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः।
स च त्रिविधः - शीतोष्णाऽनुष्णाशीतभेदात्।
पृथिवीजलतेजोवायुवृत्तिः। तत्र शीतो जले। उष्णस्तेजसि।
अनुष्णाशीतः पृथिवीवाय्वोः।

रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च।
अन्यत्राऽपाकजं नित्यमनित्यं च। नित्यगतं नित्यम्। अनित्यगतमनित्यम्।

एकत्वादिव्यवहारहेतुः संख्या। सा नवद्रव्यवृत्तिः। एकत्वादिपरार्धपर्यन्ता।
एकत्वं नित्यमनित्यं च। नित्यगतं नित्यम्। अनित्यगतमनित्यम्।
द्वित्वादिकं तु सर्वत्राऽनित्यमेव।

मानव्यवहाराऽसाधारणं कारणं परिमाणम्। नवद्रव्यवृत्ति।
तच्चतुर्विधम् - अणु महत् दीर्घं ह्रस्वं चेति।

पृथग्व्यवहाराऽसाधारणकारणं पृथक्त्वम्। सर्वद्रव्यवृत्ति।
संयुक्तव्यवहारहेतुः संयोगः। सर्वद्रव्यवृत्तिः।
संयोगनाशको गुणो विभागः। सर्वद्रव्यवृत्तिः।

परापरव्यवहाराऽसाधारणकारणे परत्वापरत्वे। पृथिव्यादिचतुष्टयमनोवृत्तिनी।
ते द्विविधे - दिक्कृते कालकृते चेति। दूरस्थे दिक्कृतं परत्वम्।
समीपस्थे दिक्कृतमपरत्वम्। ज्येष्ठे कालकृतं परत्वम्।
कनिष्ठे कालकृतमपरत्वम्।

आद्यपतनाऽसमवायिकारणं गुरुत्वम्। पृथिवीजलवृत्ति।

आद्यस्यन्दनाऽसमवायिकारणं द्रवत्वम्। पृथिवीजलतेजोवृत्ति।
तद् द्विविधम् - सांसिद्धिकं नैमित्तिकं चेति ।
सांसिद्धिकं जले। नैमित्तिकं पृथिवीतेजसोः।
पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम्। तेजसि सुवर्णादौ।

चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः। जलमात्रवृत्तिः।
श्रोत्रग्राह्यो गुणः शब्दः। आकाशमात्रवृत्तिः।
स द्विविधः- ध्वन्यात्मको वर्णात्मकश्चेति।
तत्र ध्वन्यात्मको भेर्यादौ। वर्णात्मकः संस्कृतभाषादिरूपः।

सर्वव्यवहारहेतुर्ज्ञानं बुद्धिः। सा द्विविधा - स्मृतिरनुभवश्च।
संस्कारमात्रजन्यं ज्ञानं स्मृतिः। तद्भिन्नं ज्ञानमनुभवः।

स द्विविधः - यथार्थोऽयथार्थश्चेति।
तद्वति तत्प्रकारकोऽनुभवो यथार्थः। यथा 'अयं घट' इति ज्ञानम्।
सैव प्रमेत्युच्यते।
तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः। यथा 'शुक्तौ इदं रजत'मिति ज्ञानम्। सैव अप्रमेत्युच्यते।

यथार्थानुभवश्चतुर्विधः – प्रत्यक्षाऽनुमित्युपमितिशाब्दभेदात्।
तत्करणमपि चतुर्विधम्- प्रत्यक्षाऽनुमानोपमानशब्दभेदात्।

असाधारणं कारणं करणम्। कार्यनियतपूर्ववृत्ति कारणम्।
कार्यं प्रागभावप्रतियोगि।

कारणं त्रिविधम् - समवाय्यसमवायिनिमित्तभेदात्।
यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम्।
यथा तन्तवः पटस्य, पटश्च स्वगतरूपादेः।

कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतं तत् कारणमसमवायिकारणम्।
यथा तन्तुसंयोगः पटस्य। तन्तुरूपं पटरूपस्य।

तदुभयभिन्नं कारणं निमित्तकारणम्। यथा तुरीवेमादिकं पटस्य।
तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम्।

तत्र प्रत्यक्षज्ञानकारणं प्रत्यक्षम्।
इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्।
तद्विविधम् - निर्विकल्पकं सविकल्पकं चेति।
तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकम्।
सप्रकारकं ज्ञानं सविकल्पकम् ।
यथा 'डित्थोऽयं' 'ब्राह्मणोऽयं' 'श्यामोऽय'मिति।

प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः।
संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः,
समवेतसमवायः, विशेषणविशेष्यभावश्चेति।

चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः।
घटरूपप्रत्यक्षे संयुक्तसमवायः।
चक्षुस्संयुक्ते घटे रूपस्य समवायात्।

रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः।
चक्षुःसंयुक्ते घटे रूपं समवेतम्।
तत्र रूपत्वस्य समवायात्।

श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः।
कर्णविवरवृत्त्याकाशस्य श्रोत्रत्वात् शब्दस्याऽऽकाशगुणत्वात् गुणगुणिनोश्च समवायात्।

शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः।
श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात्।

अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः।
'भूतलं घटाऽभाववत्' इत्यत्र चक्षुःसंयुक्ते भूतले
घटाभावस्य विशेषणत्वात्।

एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षम्, तत्करणमिन्द्रियम्,
तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम्॥

॥इति प्रत्यक्षखण्डः॥


अनुमानपरिच्छेदः


अनुमितिकरणमनुमानम्। परामर्शजन्यं ज्ञानमनुमितिः।

व्याप्तिविशिष्ट-पक्षधर्मताज्ञानं परामर्शः।
यथा 'वह्निव्याप्यधूमवानयं पर्वत' इति ज्ञानं परामर्शः।
तज्जन्यं 'पर्वतो वह्निमान्' इति ज्ञानमनुमितिः।

यत्र यत्र धूमस्तत्र अग्निरिति साहचर्यनियमो व्याप्तिः।
व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता।

अनुमानं द्विविधम् - स्वार्थं परार्थं च। स्वार्थं स्वानुमितिहेतुः।

तथाहि - स्वयमेव भूयो दर्शनेन यत्र यत्र धूमस्तत्र अग्निरिति
महानसादौ व्यप्तिं गृहीत्वा पर्वतसमीपं गतः तद्गते चाग्नौ संदिहानः
पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र धूमस्तत्राऽग्निरिति।
तदनन्तरं वह्निव्याप्यधूमवानयं पर्वतः इति ज्ञानमुत्पद्यते।
अयमेव लिङ्गपरामर्श इत्युच्यते।

तस्मात् पर्वतो वह्निमान् इति ज्ञानमुत्पद्यते। तदेतत्स्वार्थानुमानम्।
यत्तु स्वयं धूमादग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं
प्रयुङ्क्ते तत्परार्थानुमानम्।

यथा पर्वतो वह्निमान् धूमवत्त्वात्, यो यो धूमवान् सोऽग्निमान्
यथा महानसः, तथा चायम्, तस्मात्तथेति।
अनेन प्रतिपादिताल्लिङ्गात् परोऽप्यग्निं प्रतिपद्यते।

प्रतिज्ञाहोतूदाहरणोपनयनिगमनानि पञ्चावयवाः।
पर्वतो वह्निमान् इति प्रतिज्ञा।
धूमवत्त्वात् इति हेतुः। यो यो धूमवान् सोऽग्निमान् इत्युदाहरणम्।
तथा चायम् इत्युपनयः। तस्मात्तथा इति निगमनम्।

स्वार्थानुमितिपरार्थानुमित्योर्लिङ्गपरामर्श एव करणम्। तस्माल्लिङ्गपरामर्शोऽनुमानम्।

लिङ्गं त्रिविधम्। अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति।

अन्वयेन व्यतिरेकेण च व्याप्तिमत् अन्वयव्यतिरेकि। यथा - वह्नौ साध्ये धूमवत्त्वम्।
यत्र धूमस्तत्राग्निः यथा महानसम् इत्यन्वयव्याप्तिः।
यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाह्रद इति व्यतिरेकव्याप्तिः।

अन्वयमात्रव्याप्तिकं केवलान्वयि।
यथा - घटोऽभिधेयः प्रमेयत्वात् पटवत् इति।
अत्र प्रमेयत्वाऽभिधेयत्वयोः व्यतिरेकव्याप्तिार्नास्ति सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च।

व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि।
यथा पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वात्।
यदितरेभ्यो न भिद्यते न तद्गन्धवत्।
यथा जलं न चेयं तथा। तस्मान्न तथेति।
अत्र यद्गन्धवत्तदिरेभ्यो भिन्नम् इत्यन्वयदृष्टान्तो नास्ति, पृथिवीमात्रस्य पक्षत्वात्।

सन्दिग्धसाध्यवान् पक्षः। यथा धूमवत्त्वे हेतौ पर्वतः।
निश्चितसाध्यवान् सपक्षः।
यथा तत्रैव महानसः। निश्चितसाध्याऽभाववान् विपक्षः।
यथा तत्रैव महाह्रदः।

सव्यभिचार-विरूद्ध-सत्प्रतिपक्षा-ऽसिद्ध-बाधिताः पञ्च हेत्वाभासाः।
सव्यभिचारोऽनैकान्तिकः।
स त्रिविधः साधारणा-ऽसाधारणा-ऽनुपसंहारिभेदात्।

तत्र साध्याऽभाववद्वृत्तिः साधारणोऽनैकान्तिकः
यथा पर्वतो वह्निमान् प्रमेयत्वादिति।
अत्र प्रमेयत्वस्य वह्न्यभाववति ह्रदे विद्यमानत्वात्।

सर्वसपक्षविपक्षव्यावृत्तः असाधारणः।
यथा शब्दो नित्यः शब्दत्वादिति।
शब्दत्वं हि सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च व्यावृत्तम्। शब्दमात्रवृत्ति।

अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी।
यथा सर्वमनित्यं प्रमेयत्वादिति।
अत्र सर्वस्यापि पक्षत्वात् दृष्टान्तो नास्ति।

साध्याभावव्याप्तो हेतुः विरूद्धः। यथा शब्दो नित्यः कार्यत्वादिति।
कार्यत्वं हि नित्यत्वाभावेनानित्यत्वेन व्याप्तम्।

यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः।
यथा शब्दो नित्यः श्रावणत्वात् शब्दत्ववत्।
शब्दः अनित्यः कार्यत्वात् घटवत्।

असिद्धस्त्रिविधः। आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासिद्धश्चेति।

आश्रयासिद्धो यथा गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवत्।
अत्र गगनारविन्दमाश्रयः स च नास्त्येव।

स्वरूपासिद्धो यथा शब्दो गुणश्चाक्षुषत्वात्।
अत्र चाक्षुषत्वं शब्दे नास्ति शब्दस्य श्रावणत्वात्।

सोपाधिको हेतुः व्याप्यत्वाऽसिद्धः।
साध्यव्यापकत्वे सति साधनाऽव्यापकत्वम् उपाधिः।

साध्यसमानाधिकरणात्यन्ताभावाऽप्रतियोगित्वं साध्यव्यापकत्वम्।
साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाऽव्यापकत्वम्।
पर्वतो धूमवान् वह्निमत्त्वाद् इत्यत्र आर्द्रेन्धनसंयोग उपाधिः।
तथाहि - यत्र धूमस्तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकता।
यत्र वह्निस्तत्रार्द्रेन्धनसंयोगो नास्ति।

अयोगोलके आर्द्रेन्धनसंयोगाभावादिति साधनाव्यापकता।
एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वाद्
आर्द्रेन्धनसंयोग उपाधिः।
सोपाधिकत्वाद् वह्निमत्त्वं व्याप्यत्वासिद्धम्।

यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः।
यथा वह्निः अनुष्णो द्रव्यत्वात् जलवत्।
अत्राऽनुष्णत्वं साध्यं तदभाव उष्णत्वं स्पार्शनप्रत्यक्षेण
गृह्यते इति बाधितत्वम्।

॥ इति अनुमानपरिच्छेदः ॥


उपमानपरिच्छेदः


उपमितिकरणम् उपमानम्। संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः।
तत्करणं सादृश्यज्ञानम्। अतिदेशवाक्यार्थस्मरणम् अवान्तरव्यापारः।
तथा हि - कश्चिद् गवयपदार्थमजानन् कुतश्चिदारण्यकपुरूषात्
गोसदृशो गवय इति श्रुत्वा वनं गतो वाक्यार्थं स्मरन्
गोसदृशं पिण्डं पश्यति।
तदनन्तरमसौ गवयशब्दवाच्य इत्युपमितिरूत्पद्यते।

॥ इति उपमानपरिच्छेदः ॥


शब्दपरिच्छेदः


आप्तवाक्यं शब्दः। आप्तस्तु यथार्थवक्ता। वाक्यं तु पदसमूहः।
यथा गामानयेति। शक्तं पदम्।
अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसंकेतः शक्तिः।

आकाङ्क्षा योग्यता संनिधिश्च वाक्यार्थज्ञानहेतुः।
पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाऽननुभावकत्वमाकाङ्क्षा।
अर्थाऽबाधो योग्यता।
पदानामविलम्बेनोच्चारणं सन्निधिः॥

आकाङ्क्षादिरहितं वाक्यमप्रमाणम्।
यथा गौरश्वः पुरूषो हस्तीति वाक्यं न प्रमाणम् आकाङ्क्षाविरहात्।
अग्निना सिञ्चतीति वाक्यं न प्रमाणं योग्यताविरहात्।
प्रहरे प्रहरे असहोच्चारितानि गामानयेत्यादिपदानि न
प्रमाणं सान्निध्याऽभावात्।।

वाक्यं द्विविधम्। वैदिकं लौकिकं चेति।
वैदिकमीश्वरोक्तत्वात् सर्वमेव प्रमाणम्।
लौकिकं तु आप्तवाक्यं प्रमाणम्। अन्यदप्रमाणम्।
वाक्यार्थज्ञानं शाब्दज्ञानम्। तत्करणं शब्दः॥

॥ इति शब्दपरिच्छेदः ॥


परिशिष्टम्


अयथार्थानुभवस्त्रिविधः संशय-विपर्यय-तर्क-भेदात्।

एकस्मिन् धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यावगाहि ज्ञानं संशयः।
यथा स्थाणुर्वा पुरूषो वेति।

मिथ्याज्ञानं विपर्ययः। यथा शुक्तौ इदं रजतमिति।

व्याप्याऽरोपेण व्यापकाऽरोपस्तर्कः। यथा यदि वह्निर्न स्यात् तर्हि धूमोऽपि न स्यादिति।

स्मृतिरपि द्विविधा। यथार्था अयथार्था चेति। प्रमाजन्या यथार्था। अप्रमाजन्या अयथार्था।

सर्वेषामनुकूलतया वेदनीयं सुखम्।
सर्वेषां प्रतिकूलतया वेदनीयं दुःखम्।
इच्छा कामः। क्रोधो द्वेषः। कृतिः प्रयत्नः।
विहितकर्मजन्यो धर्मः। निषिद्धकर्मजन्य अधर्मः।

बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः।
बुद्धीच्छाप्रयत्ना द्विविधाः।
नित्या अनित्याश्च। नित्या ईश्वरस्य। अनित्याः जीवस्य।

संस्कारस्त्रिविधः। वेगो भावना स्थितिस्थापकश्चेति।
वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः।
अनुभवजन्या स्मृतिहेतुर्भावना। आत्ममात्रवृत्तिः।
अन्यथाकृतस्य पुनस्तादवस्थ्यसम्पादकः स्थितिस्थापकः कटादिपृथिवीवृत्तिः॥

चलनात्मकं कर्म। ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम्।
अधोदेशसंयोगहेतुरपक्षेपणम्।
शरीरसंनिकृष्टसंयोगहेतुराकुञ्चनम्।
शरीरविप्रकृष्टसंयोगहेतुः प्रसारणम्।
अन्यत् सर्वं गमनम्। पृथिव्यादिचतुष्टयमनोमात्रवृत्ति।

नित्यमेकमनेकानुगतं सामान्यम्। द्रव्यगुणकर्मवृत्ति।
तद् द्विविधं परापरभेदात्।
परं सत्ता। अपरं द्रव्यत्वादि।

नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः।

नित्यसम्बन्धः समवायः। अयुतसिद्धवृत्तिः।
ययोर्मध्ये एकमविनश्यद् अपराश्रितमेवाऽवतिष्ठते
तावयुतसिद्धौ।
यथा अवयवाऽवयविनौ क्रियाक्रियावन्तौ
जातिव्यक्ती विशेषनित्यद्रव्ये चेति।

अनादिः सान्तः प्रागभावः। उत्पत्तेः पूर्व कार्यस्य।
सादिरनन्तः प्रध्वंसाभावः। उत्पत्यनन्तरं कार्यस्य।
त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः।
यथा भूतले घटो नास्तीति।
तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः।
यथा घटः पटो नेति।
सर्वेषां पदार्थानां यथायथमुक्तेष्वन्तर्भावात् सप्तैव पदार्था इति सिद्धम्।

कणादन्यायमतयोर्बालव्युत्पत्तिसिद्धये।
अन्नंभट्टेन विदुषा रचितस्तर्कसङ्ग्रहः॥

।। इत्यन्नम्भट्टविरचितः तर्कसङ्गहः समाप्तः ।।